उपसर्गविचारः-निरुक्त-पाणिनीय-सारस्वतदिशा।
उपसर्गः, निपातः, सारस्वते उपसर्गाः, पाणिनीये उपसर्गाः, निरुक्ते उपसर्गाः
वेदे, प्रातिशाख्ये, निरुक्ते, शाब्दिकानां च नामाख्यातोपसर्गभेदेन पदचातुर्विध्यं प्रसिद्धमस्ति। व्यवहारे स्वतन्त्ररूपेण द्विविधपदस्यैव प्रयोगात् द्विविधं पदमिति प्रसिद्धिः। शब्दशास्त्रे सुप्पदेन नामोपसर्गनिपातानां तिङ्पदेन आख्यातस्य च बोधो भवति। उपसर्गनिपातौ यद्यपि प्रायः न अर्थवन्तौ, तथापि नामाख्याताभ्यां भिन्नौ। उपसर्गनिपातयोः परस्परं भेदश्च सामान्यविशेषपरतया बोध्यः। उपसर्गाणां प्रवृत्तिः त्रिधा दृश्यते। कश्चित् उपसर्गो धात्वर्थं बाधते, यथा दानार्थे प्रसिद्धो दा धातुः आङ् उपसर्गात् ग्रहणरूपार्थं ददाति। कश्चित् उपसर्गश्च धात्वर्थम् अनुवर्तते, यथा- प्रसूते इत्यत्र सूञ् धातोः उत्पत्तिरूपार्थः एव प्रतीयते, प्रोपसर्गेण न कश्चनाप्यर्थविशेषो लक्ष्यते। अन्ये च उपसर्गाः धात्वर्थं विशिषन्ति, यथा- नमति, प्रणमति, लिखति, अभिलिखति इत्यादिषु सामान्यविशेषभावः स्पष्टं प्रतीयते। एषां पठनेन निरुक्ते पाणिनीये सारस्वतव्याकरणे च उपसर्गाणां व्यवस्था कथं सज्जीकृता इति सुस्पष्टा। अर्थद्योतकत्वे उपसर्गाणां शक्तिः, उपसर्गाणां वैविध्यं, सम्प्रदायान्तरेषु अर्थव्यतियानानि इत्यादिविषयाः अत्र प्रस्तुताः।
"उपसर्गविचारः-निरुक्त-पाणिनीय-सारस्वतदिशा।", IJSDR - International Journal of Scientific Development and Research (www.IJSDR.org), ISSN:2455-2631, Vol.8, Issue 10, page no.758 - 763, October-2023, Available :https://ijsdr.org/papers/IJSDR2310116.pdf
Volume 8
Issue 10,
October-2023
Pages : 758 - 763
Paper Reg. ID: IJSDR_208853
Published Paper Id: IJSDR2310116
Downloads: 000347248
Research Area: Arts
Country: Ernakulam, Kerala, India
ISSN: 2455-2631 | IMPACT FACTOR: 9.15 Calculated By Google Scholar | ESTD YEAR: 2016
An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 9.15 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator
Publisher: IJSDR(IJ Publication) Janvi Wave